हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Parameshwara Seeghra Pooja Vidhanam – श्री परमेश्वर शीघ्र पूजा विधानम्
शिवाय गुरवे नमः ।
शुचिः –
ओं अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥
प्रार्थना –
(कुंकुमं धृत्वा)
ओं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
यश्शिवो नाम रूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥
आचम्य –
ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।
दीपाराधनम् –
ओं दीपस्त्वं ब्रह्मरूपोसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
प्राणायामम् –
ओं भूः । ओं भुवः । ओं सुवः । ओं महः ।
ओं जनः । ओं तपः । ओं सत्यम् ।
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।
ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ।
लघुसङ्कल्पम् –
मम उपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं एतत् मङ्गल प्रदेशे, नारायण मुहूर्ते, ____ नामधेयाऽहं मम सहकुटुम्बस्य श्री परमेश्वर अनुग्रह सिद्ध्यर्थं लघुपूजां करिष्ये ॥
कलश प्रार्थना –
गङ्गे च यमुने कृष्णे गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
ओं कलश देवताभ्यो नमः सकल पूजार्थे अक्षतान् समर्पयामि ॥
गणपति प्रार्थना –
ओं ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
ओं श्री महागणपतये नमः सकल पूजार्थे पुष्पाऽक्षतान् समर्पयामि ।
भस्मधारण मन्त्रम् –
ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥
ध्यानम् –
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ १ ॥
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २ ॥
अस्मिन् प्रतिमे श्री परमेश्वर स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥
औपचारिक स्नानम् –
ओं नमः शिवाय औपचारिक स्नानं समर्पयामि ॥
गन्धम् –
ओं नमः शिवाय गन्धं समर्पयामि ॥
पुष्पम् –
ओं नमः शिवाय पुष्पं समर्पयामि ॥
धूपम् –
ओं नमः शिवाय धूपं समर्पयामि ॥
दीपम् –
ओं नमः शिवाय दीपं समर्पयामि ॥
नैवेद्यम् –
ओं नमः शिवाय नैवेद्यं समर्पयामि ॥
नमस्कारम् –
ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ईशानः सर्वविद्यानां ईश्वरः सर्वभूतानां
ब्रह्माऽधिपतिर्-ब्रह्मणोऽधिपतिर्-ब्रह्मा
शिवो मे अस्तु सदाशिवोम् ॥
ओं नमः शिवाय मन्त्रपुष्प सहित नमस्कारं समर्पयामि ।
समर्पणम् –
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मयादेव परिपूर्णं तदस्तुते ॥
एतत्फलं श्री परमेश्वरार्पणमस्तु ।
स्वस्ति ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.